विद्यार्थीजीवनम् (अथवा छात्रजीवनम्) विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्ध लिखत

विद्यार्थीजीवनम् (अथवा छात्रजीवनम्) विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायां निबन्ध लिखत


विद्यार्थीजीवनम् (अथवा छात्रजीवनम्)


छात्रजीवनमेव मानवजीवनस्य प्रभातवेला आधारशिला च वर्तते। समस्तजीवनस्य विकासस्य हासस्य

वा कारणम् एतज्जीवनमेवास्ति। वस्तुतः विद्यार्थिजीवनं साधनामयं जीवनम्। अध्ययनं परमं तप उच्यते।

छात्रजीवने परिश्रमस्य महती आवश्यकता वर्तते। य: छात्र: आलस्यं त्यक्त्वा परिश्रमेण विद्याध्ययनं

करोति स एव साफल्यं लभते। अतएव छात्रैः प्रात:काले मुहूर्ते एव उत्थातव्यम्। कस्मैचित् कालाय भ्रमणाय अनिवार्यम्। ततः प्रतिनिवृत्य स्नानसन्ध्योपासनादिकं विधाय अध्ययनं कर्त्तव्यम्। तदान्तरं च लघुसात्विकं भोजनं दुग्धं च गृहीत्वा विद्यालयं गन्तव्यम्। तत्र गत्वा गुरुन् नत्वा अध्ययनं कर्त्तव्यम्। छात्रः असत्यवादनं न कदापि कर्त्तव्यम्। छात्रजीवनं पूर्णत: अनुशासनवद्धं भवति। विद्यार्थीजीवने एव समस्तानां मानवोचितगुणानां विकासः भवति। छात्र एव राष्ट्रस्ययानुपमा निधिरस्ति। अत: छात्राणां शारीरिकं चारित्रिकं च विकासं अत्यन्तानिवार्यम्।विद्यार्थिजीवनमेव सम्पूर्णागामिजीवनस्य आधारशिला। अतः तेषां सम्यक् रक्षणं, पोपणम् च कर्त्तव्यम्।




Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.